पितृष्वसुः इत्येतदपेक्षते। पितृष्वसुर् यदुक्तं तन् मातृष्वसुरपि भवति, छन्ण्प्रत्ययो ढकि लोपश्च। मातृष्वस्त्रीयः। मातृष्वसेयः।
"पितृष्वसुरित्येतदपेक्षते"इति। इहापि "अनन्तरस्य पितृष्वसुर्विधिर्वा भवतिप्रतिषेधो वा" इति लोप एवानन्तरः प्राप्नोति, न छण्; व्यवहितत्वात्। उभयमपि चैतदिष्यते, तत्र यतो हेतोरेतद्द्वयमपि लभ्यते तमनेन दर्शयति-- "पितृष्वसुः" इति। एतदिहापेक्ष्यमाणं षष्ठ()न्तं ज्ञायते यथा लोपविधौ "पितृष्वसुः"
४।१।१३२ इति च षष्ठी, तेनायमर्थः सम्पद्यते-- पितृष्वसुर्यदुक्तं तन्मातृष्वसुरपि तेन छण् ढकि लोपश्च लभ्यते। उभयमपि ह्रेतत् पितृष्वसुरुक्तम्॥